|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.210. अध्यायः 210
Mahabharata - Vana Parva - Chapter Topics
कौशिकनामकेन द्विजवरेण पतिव्रतावचनाद्धर्मावगतये धर्मव्याधंप्रति गमनम् ॥ 1 ॥ व्याधेन तस्मै नानाधर्मोपदेशः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-210-0x(2478)(24182)
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥ 3-210-1(24183)
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्।
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ॥ 3-210-2(24184)
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल।
तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ 3-210-3(24185)
इतिसंचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥ 3-210-4(24186)
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ॥ 3-210-5(24187)
ततो जगाम मिथिलां जनकेन सुरक्षिताम्।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ॥ 3-210-6(24188)
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम्।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ॥ 3-210-7(24189)
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ॥ 3-210-8(24190)
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्।
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥ 3-210-9(24191)
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ॥ 3-210-10(24192)
मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम्।
आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः ॥ 3-210-11(24193)
स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः।
आजगाम यतो विप्रः स्थित एकान्तआसने ॥ 3-210-12(24194)
व्याध उवाच। 3-210-13x(2479)
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥ 3-210-13(24195)
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ 3-210-14(24196)
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ 3-210-15(24197)
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम्।
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ॥ 3-210-16(24198)
मार्कण्डेय उवाच। 3-210-17x(2480)
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥ 3-210-17(24199)
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः।
`अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः' ॥ 3-210-18(24200)
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः।
ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत् ॥ 3-210-19(24201)
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ 3-210-20(24202)
व्याध उवाच। 3-210-21x(2481)
कुलोचितमिदं कर्म पितृपैतामहं परम्।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥ 3-210-21(24203)
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन्।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥ 3-210-22(24204)
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥ 3-210-23(24205)
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम्।
कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम ॥ 3-210-24(24206)
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्।
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ॥ 3-210-25(24207)
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः।
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ॥ 3-210-26(24208)
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ 3-210-27(24209)
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ 3-210-28(24210)
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते।
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ॥ 3-210-29(24211)
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्।
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ॥ 3-210-30(24212)
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ 3-210-31(24213)
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ 3-210-32(24214)
परेण हि हतान्ब्रह्मन्वराहमहिषानहम्।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ 3-210-33(24215)
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम्।
सदोपवासी च तथा नक्तभोजी सदा द्विज ॥ 3-210-34(24216)
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ॥ 3-210-35(24217)
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान्।
अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः ॥ 3-210-36(24218)
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ॥ 3-210-37(24219)
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा।
स एष राजा जनकः प्रजा धर्मेण पश्यति ॥ 3-210-38(24220)
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा।
`पात्येष राजा जनकः पितृवद्द्विजसत्तम' ॥ 3-210-39(24221)
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः।
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ॥ 3-210-40(24222)
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः।
न किंचिदुपजीवनति दान्ता उत्थानसीलिनः ॥ 3-210-41(24223)
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥ 3-210-42(24224)
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥ 3-210-43(24225)
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ॥ 3-210-44(24226)
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत्।
कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत् ॥ 3-210-45(24227)
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्।
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ॥ 3-210-46(24228)
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति।
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ॥ 3-210-47(24229)
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये।
अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः ॥ 3-210-48(24230)
महादृतिरिवाध्मातः पापो भवति नित्यदा।
`साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम' ॥ 3-210-49(24231)
मूढानामवलिप्तानामसारं भाषितं भवेत्।
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ 3-210-50(24232)
न लोके राजते मूर्खः केवलात्मप्रशंसया।
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ॥ 3-210-51(24233)
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्।
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥ 3-210-52(24234)
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते।
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ 3-210-53(24235)
कर्मणा येन केनापि पापात्मा द्विजसत्तम।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ॥ 3-210-54(24236)
पापनि बुद्ध्वेह पुरा कृतानि
स्वधर्मशीलो विनिहन्ति पश्चात्।
धर्मो ब्रह्मन्नुदते ब्राह्मणानां
यत्कुर्वते पापमिह प्रमादात् ॥ 3-210-55(24237)
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः।
[तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः] ॥ 3-210-56(24238)
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः ॥ 3-210-57(24239)
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः।
`अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति' ॥ 3-210-58(24240)
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ॥ 3-210-59(24241)
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ 3-210-60(24242)
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम।
`तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः' ॥ 3-210-61(24243)
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥ 3-210-62(24244)
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः।
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ 3-210-63(24245)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-210-1 आगोऽपराधः कृतमननेत्यागस्कृतः ॥ 3-210-7 विमानैः साप्तभौमिकगृहैः ॥ 3-210-10 सूना वधस्थानं तन्मध्ये ॥ 3-210-16 अदेशस्थं अयोग्यदेशस्थम् ॥ 3-210-22 गुरू मातापितरौ ॥ 3-210-23 वर्तये जीवामि ॥ 3-210-24 कुत्सा विद्यमानदोषसंकीर्तनम्। गर्हा अविद्यमानदोषारोपः। पुराकृतं कर्मेति संबन्धः ॥ 3-210-25 लोकः परलोकः ॥ 3-210-30 न ग्लाति न ग्लानि नयति ॥ 3-210-36 व्यभिचारात्स्वैरगतेः ॥ 3-210-37 भेरुण्डाः भयानकाः। उरुण्डाः इति ख. थ.ध. पाठः ॥ 3-210-40 सुपरिणीतेन साधुना ॥ 3-210-41 ये संयुञ्जन्ति सम्यग्योगं सेनाविनेशं कुर्वन्ति तएव पार्तिवा अन्ये चोरो इत्यर्थः ॥ 3-210-44 संरम्भाद्भयात् ॥ 3-210-45 अन्त् विपरीतं स्यात् इतरत्तादृशं द्वितीयं कल्याणमेवाचरेत् ॥ 3-210-46 पापः पापी ॥ 3-210-47 वृजिनानां व्यसनवताम् ॥ 3-210-49 दृतिर्भस्त्रा। आध्यातः सन्नसारोपि पुष्टो भवेत् ॥ 3-210-51 मृजाहीनः मलिनदेहः ॥ 3-210-52 मूढस्वरूपमाह अब्रुवन्निति ॥ 3-210-53 पापात् प्राक्कृतात्। द्वितीयात्करिष्यमाणात् ॥ 3-210-54 जपतपस्तीर्थाद्यन्यतमेन येनकेनचिदपि कर्मणा पापात् परिमुच्यत् इत्यनुषज्ज्यते ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|